Original

संशयं परमं प्राप्य वेदनामतुलामपि ।प्रजायन्ते सुतान्नार्यो दुःखेन महता विभो ।पुष्णन्ति चापि महता स्नेहेन द्विजसत्तम ॥ १० ॥

Segmented

संशयम् परमम् प्राप्य वेदनाम् अतुलाम् अपि प्रजायन्ते सुतान् नार्यो दुःखेन महता विभो पुष्णन्ति च अपि महता स्नेहेन द्विज-सत्तम

Analysis

Word Lemma Parse
संशयम् संशय pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
वेदनाम् वेदना pos=n,g=f,c=2,n=s
अतुलाम् अतुल pos=a,g=f,c=2,n=s
अपि अपि pos=i
प्रजायन्ते प्रजन् pos=v,p=3,n=p,l=lat
सुतान् सुत pos=n,g=m,c=2,n=p
नार्यो नारी pos=n,g=f,c=1,n=p
दुःखेन दुःख pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
विभो विभु pos=a,g=m,c=8,n=s
पुष्णन्ति पुष् pos=v,p=3,n=p,l=lat
pos=i
अपि अपि pos=i
महता महत् pos=a,g=m,c=3,n=s
स्नेहेन स्नेह pos=n,g=m,c=3,n=s
द्विज द्विज pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s