Original

आस्याद्वमन्पावकं स संवर्तकसमं तदा ।तान्सर्वान्नृपतेः पुत्रानदहत्स्वेन तेजसा ॥ २४ ॥

Segmented

आस्याद् वमन् पावकम् स संवर्तक-समम् तदा तान् सर्वान् नृपतेः पुत्रान् अदहत् स्वेन तेजसा

Analysis

Word Lemma Parse
आस्याद् आस्य pos=n,g=n,c=5,n=s
वमन् वम् pos=va,g=m,c=1,n=s,f=part
पावकम् पावक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
संवर्तक संवर्तक pos=n,comp=y
समम् सम pos=n,g=m,c=2,n=s
तदा तदा pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नृपतेः नृपति pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अदहत् दह् pos=v,p=3,n=s,l=lan
स्वेन स्व pos=a,g=n,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s