Original

कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् ।समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ।कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥ ६ ॥

Segmented

कुवलाश्वस् तु पितृतो गुणैः अभ्यधिको ऽभवत् समये तम् ततो राज्ये बृहदश्वो ऽभ्यषेचयत् कुवलाश्वम् महा-राज शूरम् उत्तम-धार्मिकम्

Analysis

Word Lemma Parse
कुवलाश्वस् कुवलाश्व pos=n,g=m,c=1,n=s
तु तु pos=i
पितृतो पितृ pos=n,g=m,c=5,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अभ्यधिको अभ्यधिक pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
समये समय pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
बृहदश्वो बृहदश्व pos=n,g=m,c=1,n=s
ऽभ्यषेचयत् अभिषेचय् pos=v,p=3,n=s,l=lan
कुवलाश्वम् कुवलाश्व pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
शूरम् शूर pos=n,g=m,c=2,n=s
उत्तम उत्तम pos=a,comp=y
धार्मिकम् धार्मिक pos=a,g=m,c=2,n=s