Original

स तानुवाच ।अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः ।कीर्तिस्ते व्युच्छिन्नेति ।स मामुपातिष्ठत् ।अथ प्रत्यभिजानाति मां भवानिति ॥ २ ॥

Segmented

स तान् उवाच अस्ति खलु राजर्षिः इन्द्रद्युम्नो नाम क्षीण-पुण्यः त्रिदिवात् प्रच्युतः कीर्तिः ते व्युच्छिन्ना इति स माम् उपातिष्ठत् अथ प्रत्यभिजानाति माम् भवान् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
अस्ति अस् pos=v,p=3,n=s,l=lat
खलु खलु pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
इन्द्रद्युम्नो इन्द्रद्युम्न pos=n,g=m,c=1,n=s
नाम नाम pos=i
क्षीण क्षि pos=va,comp=y,f=part
पुण्यः पुण्य pos=n,g=m,c=1,n=s
त्रिदिवात् त्रिदिव pos=n,g=n,c=5,n=s
प्रच्युतः प्रच्यु pos=va,g=m,c=1,n=s,f=part
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
व्युच्छिन्ना व्युच्छिद् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपातिष्ठत् उपस्था pos=v,p=3,n=s,l=lan
अथ अथ pos=i
प्रत्यभिजानाति प्रत्यभिज्ञा pos=v,p=3,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i