Original

स तद्वाक्यमुपलभ्य व्यथितेन्द्रियमनाः प्रोवाच ।प्रसीद राजन् ।अहमायुर्नाम मण्डूकराजः ।मम सा दुहिता सुशोभना नाम ।तस्या दौःशील्यमेतत् ।बहवो हि राजानस्तया विप्रलब्धपूर्वा इति ॥ ३७ ॥

Segmented

स तद् वाक्यम् उपलभ्य व्यथ्-इन्द्रिय-मनाः प्रोवाच प्रसीद राजन् अहम् आयुः नाम मण्डूक-राजः मम सा दुहिता सुशोभना नाम तस्या दौःशील्यम् एतत् बहवो हि राजानः तया विप्रलभ्-पूर्वाः इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उपलभ्य उपलभ् pos=vi
व्यथ् व्यथ् pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
आयुः आयु pos=n,g=m,c=1,n=s
नाम नाम pos=i
मण्डूक मण्डूक pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
सुशोभना सुशोभना pos=n,g=f,c=1,n=s
नाम नाम pos=i
तस्या तद् pos=n,g=f,c=6,n=s
दौःशील्यम् दौःशील्य pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
बहवो बहु pos=a,g=m,c=1,n=p
हि हि pos=i
राजानः राजन् pos=n,g=m,c=1,n=p
तया तद् pos=n,g=f,c=3,n=s
विप्रलभ् विप्रलभ् pos=va,comp=y,f=part
पूर्वाः पूर्व pos=n,g=m,c=1,n=p
इति इति pos=i