Original

वापीमपि निःस्राव्य मण्डूकं श्वभ्रमुखे दृष्ट्वा क्रुद्ध आज्ञापयामास ।सर्वमण्डूकवधः क्रियतामिति ।यो मयार्थी स मृतकैर्मण्डूकैरुपायनैर्मामुपतिष्ठेदिति ॥ ३० ॥

Segmented

वापीम् अपि निःस्राव्य मण्डूकम् श्वभ्र-मुखे दृष्ट्वा क्रुद्ध आज्ञापयामास सर्व-मण्डूक-वधः क्रियताम् इति यो मया अर्थी स मृतकैः मण्डूकैः उपायनैः माम् उपतिष्ठेद् इति

Analysis

Word Lemma Parse
वापीम् वापी pos=n,g=f,c=2,n=s
अपि अपि pos=i
निःस्राव्य निःस्रावय् pos=vi
मण्डूकम् मण्डूक pos=n,g=m,c=2,n=s
श्वभ्र श्वभ्र pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
दृष्ट्वा दृश् pos=vi
क्रुद्ध क्रुध् pos=va,g=m,c=1,n=s,f=part
आज्ञापयामास आज्ञापय् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
मण्डूक मण्डूक pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
यो यद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मृतकैः मृतक pos=n,g=m,c=3,n=p
मण्डूकैः मण्डूक pos=n,g=m,c=3,n=p
उपायनैः उपायन pos=n,g=n,c=3,n=p
माम् मद् pos=n,g=,c=2,n=s
उपतिष्ठेद् उपस्था pos=v,p=3,n=s,l=vidhilin
इति इति pos=i