Original

केचित्पुरवराकाराः केचिद्गजकुलोपमाः ।केचिदञ्जनसंकाशाः केचिन्मकरसंस्थिताः ।विद्युन्मालापिनद्धाङ्गाः समुत्तिष्ठन्ति वै घनाः ॥ ६८ ॥

Segmented

केचित् पुरवर-आकाराः केचिद् गज-कुल-उपमाः केचिद् अञ्जन-संकाशाः केचिन् मकर-संस्थिताः विद्युत्-माला-पिनद्ध-अङ्गाः समुत्तिष्ठन्ति वै घनाः

Analysis

Word Lemma Parse
केचित् कश्चित् pos=n,g=m,c=1,n=p
पुरवर पुरवर pos=n,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
गज गज pos=n,comp=y
कुल कुल pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अञ्जन अञ्जन pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
मकर मकर pos=n,comp=y
संस्थिताः संस्था pos=va,g=m,c=1,n=p,f=part
विद्युत् विद्युत् pos=n,comp=y
माला माला pos=n,comp=y
पिनद्ध पिनद्ध pos=a,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
समुत्तिष्ठन्ति समुत्था pos=va,g=n,c=1,n=p,f=part
वै वै pos=i
घनाः घन pos=n,g=m,c=1,n=p