Original

एतत्सहस्रपर्यन्तमहो ब्राह्ममुदाहृतम् ।विश्वं हि ब्रह्मभवने सर्वशः परिवर्तते ।लोकानां मनुजव्याघ्र प्रलयं तं विदुर्बुधाः ॥ २३ ॥

Segmented

एतत् सहस्र-पर्यन्तम् अहो ब्राह्मम् उदाहृतम् विश्वम् हि ब्रह्म-भवने सर्वशः परिवर्तते लोकानाम् मनुज-व्याघ्र प्रलयम् तम् विदुः बुधाः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
सहस्र सहस्र pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=n,c=1,n=s
अहो अहर् pos=n,g=n,c=1,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=1,n=s
उदाहृतम् उदाहृ pos=va,g=n,c=1,n=s,f=part
विश्वम् विश्व pos=n,g=n,c=1,n=s
हि हि pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
सर्वशः सर्वशस् pos=i
परिवर्तते परिवृत् pos=v,p=3,n=s,l=lat
लोकानाम् लोक pos=n,g=m,c=6,n=p
मनुज मनुज pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
प्रलयम् प्रलय pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
बुधाः बुध pos=n,g=m,c=1,n=p