Original

अथाब्रवीदनिमिषस्तानृषीन्सहितांस्तदा ।अहं प्रजापतिर्ब्रह्मा मत्परं नाधिगम्यते ।मत्स्यरूपेण यूयं च मयास्मान्मोक्षिता भयात् ॥ ४८ ॥

Segmented

अथ अब्रवीत् अनिमिषस् तान् ऋषीन् सहितांस् तदा अहम् प्रजापतिः ब्रह्मा मद्-परम् न अधिगम्यते मत्स्य-रूपेण यूयम् च मया अस्मात् मोक्षिता भयात्

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अनिमिषस् अनिमिष pos=a,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
सहितांस् सहित pos=a,g=m,c=2,n=p
तदा तदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रजापतिः प्रजापति pos=n,g=m,c=1,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
परम् पर pos=n,g=n,c=1,n=s
pos=i
अधिगम्यते अधिगम् pos=v,p=3,n=s,l=lat
मत्स्य मत्स्य pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
pos=i
मया मद् pos=n,g=,c=3,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
मोक्षिता मोक्षय् pos=va,g=m,c=1,n=p,f=part
भयात् भय pos=n,g=n,c=5,n=s