Original

स तत्र ववृधे राजन्मत्स्यः परमसत्कृतः ।पुत्रवच्चाकरोत्तस्मिन्मनुर्भावं विशेषतः ॥ १२ ॥

Segmented

स तत्र ववृधे राजन् मत्स्यः परम-सत्कृतः पुत्र-वत् च अकरोत् तस्मिन् मनुः भावम् विशेषतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
मत्स्यः मत्स्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
मनुः मनु pos=n,g=m,c=1,n=s
भावम् भाव pos=n,g=m,c=2,n=s
विशेषतः विशेषतः pos=i