Original

प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान् ।तपः समभिसंधाय वनमेवान्वपद्यत ॥ ३२ ॥

Segmented

प्रदाय च धनम् प्रीतः पुत्रेभ्यः प्रयत-आत्मवान् तपः समभिसंधाय वनम् एव अन्वपद्यत

Analysis

Word Lemma Parse
प्रदाय प्रदा pos=vi
pos=i
धनम् धन pos=n,g=n,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पुत्रेभ्यः पुत्र pos=n,g=m,c=4,n=p
प्रयत प्रयम् pos=va,comp=y,f=part
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
समभिसंधाय समभिसंधा pos=vi
वनम् वन pos=n,g=n,c=2,n=s
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan