Original

नास्य विक्षिपतश्चापं संदधानस्य चासकृत् ।अन्तरं ददृशे कश्चिन्निघ्नतः शात्रवान्रणे ॥ ५ ॥

Segmented

न अस्य विक्षिपतः चापम् संदधानस्य च असकृत् अन्तरम् ददृशे कश्चिन् निघ्नतः शात्रवान् रणे

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विक्षिपतः विक्षिप् pos=va,g=m,c=6,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
संदधानस्य संधा pos=va,g=m,c=6,n=s,f=part
pos=i
असकृत् असकृत् pos=i
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
निघ्नतः निहन् pos=va,g=m,c=6,n=s,f=part
शात्रवान् शात्रव pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s