Original

यत्रेदानीं महासर्प संस्कृतं वृत्तमिष्यते ।तं ब्राह्मणमहं पूर्वमुक्तवान्भुजगोत्तम ॥ ३२ ॥

Segmented

यत्र इदानीम् महा-सर्प संस्कृतम् वृत्तम् इष्यते तम् ब्राह्मणम् अहम् पूर्वम् उक्तवान् भुजग-उत्तम

Analysis

Word Lemma Parse
यत्र यत्र pos=i
इदानीम् इदानीम् pos=i
महा महत् pos=a,comp=y
सर्प सर्प pos=n,g=m,c=8,n=s
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पूर्वम् पूर्वम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भुजग भुजग pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s