Original

श्रुत्वा च तान्पार्थिवपुत्रपौत्रान्प्राप्तान्सुबाहुर्विषये समग्रान् ।प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ १३ ॥

Segmented

श्रुत्वा च तान् पार्थिव-पुत्र-पौत्रान् प्राप्तान् सुबाहुः विषये समग्रान् प्रत्युद्ययौ प्रीति-युतः स राजा तम् च अभ्यनन्दन् वृषभाः कुरूणाम्

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
pos=i
तान् तद् pos=n,g=m,c=2,n=p
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रान् पौत्र pos=n,g=m,c=2,n=p
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
विषये विषय pos=n,g=m,c=7,n=s
समग्रान् समग्र pos=a,g=m,c=2,n=p
प्रत्युद्ययौ प्रत्युद्या pos=v,p=3,n=s,l=lit
प्रीति प्रीति pos=n,comp=y
युतः युत pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
अभ्यनन्दन् अभिनन्द् pos=v,p=3,n=p,l=lan
वृषभाः वृषभ pos=n,g=m,c=1,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p