Original

वैशंपायन उवाच ।नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किंनरपक्षिभिश्च ।सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् ॥ १ ॥

Segmented

वैशम्पायन उवाच नग-उत्तमम् प्रस्रवणैः उपेतम् दिशाम् गजैः किन्नर-पक्षिभिः च सुखम् निवासम् जहताम् हि तेषाम् न प्रीतिः आसीद् भरत-ऋषभाणाम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नग नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
दिशाम् दिश् pos=n,g=f,c=6,n=p
गजैः गज pos=n,g=m,c=3,n=p
किन्नर किंनर pos=n,comp=y
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
pos=i
सुखम् सुख pos=a,g=m,c=2,n=s
निवासम् निवास pos=n,g=m,c=2,n=s
जहताम् हा pos=va,g=m,c=6,n=p,f=part
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभाणाम् ऋषभ pos=n,g=m,c=6,n=p