Original

रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ।प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ॥ ४८ ॥

Segmented

रौद्रम् अस्त्रम् मदीयम् त्वाम् उपस्थास्यति पाण्डव प्रददौ च मम प्रीतः सो ऽस्त्रम् पाशुपतम् प्रभुः

Analysis

Word Lemma Parse
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=1,n=s
मदीयम् मदीय pos=a,g=n,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपस्थास्यति उपस्था pos=v,p=3,n=s,l=lrt
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s