Original

तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् ।ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ ३५ ॥

Segmented

तद् अपि अस्त्रम् महा-तेजाः क्षणेन एव व्यशातयत् ब्रह्मास्त्रे तु हते राजन् भयम् माम् महद् आविशत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
व्यशातयत् विशातय् pos=v,p=3,n=s,l=lan
ब्रह्मास्त्रे ब्रह्मास्त्र pos=n,g=n,c=7,n=s
तु तु pos=i
हते हन् pos=va,g=n,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
भयम् भय pos=n,g=n,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
महद् महत् pos=a,g=n,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan