Original

न चैनमशकं हन्तुं तदद्भुतमिवाभवत् ।तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ ३० ॥

Segmented

न च एनम् अशकम् हन्तुम् तद् अद्भुतम् इव अभवत् तस्मिन् प्रतिहते च अस्त्रे विस्मयो मे महान् अभूत्

Analysis

Word Lemma Parse
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
अशकम् शक् pos=v,p=1,n=s,l=lun
हन्तुम् हन् pos=vi
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=n,c=7,n=s
प्रतिहते प्रतिहन् pos=va,g=n,c=7,n=s,f=part
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
विस्मयो विस्मय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun