Original

तस्य तच्छतधा रूपमभवच्च सहस्रधा ।तानि चास्य शरीराणि शरैरहमताडयम् ॥ २६ ॥

Segmented

तस्य तत् शतधा रूपम् अभवत् च सहस्रधा तानि च अस्य शरीराणि शरैः अहम् अताडयम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
शतधा शतधा pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
pos=i
सहस्रधा सहस्रधा pos=i
तानि तद् pos=n,g=n,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शरीराणि शरीर pos=n,g=n,c=2,n=p
शरैः शर pos=n,g=m,c=3,n=p
अहम् मद् pos=n,g=,c=1,n=s
अताडयम् ताडय् pos=v,p=1,n=s,l=lan