Original

तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम् ।मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ॥ ३ ॥

Segmented

तम् पादपैः पुष्प-धरैः उपेतम् नग-उत्तमम् प्राप्य महा-रथानाम् मनः-प्रसादः परमो बभूव यथा दिवम् प्राप्य मरुत्-गणानाम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पादपैः पादप pos=n,g=m,c=3,n=p
पुष्प पुष्प pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
नग नग pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
महा महत् pos=a,comp=y
रथानाम् रथ pos=n,g=m,c=6,n=p
मनः मनस् pos=n,comp=y
प्रसादः प्रसाद pos=n,g=m,c=1,n=s
परमो परम pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
यथा यथा pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
मरुत् मरुत् pos=n,comp=y
गणानाम् गण pos=n,g=m,c=6,n=p