Original

बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समागतानाम् ।स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् ॥ २२ ॥

Segmented

बभूव तेषाम् परमः प्रहर्षस् तेन अप्रमेयेन समागतानाम् स च अपि तान् प्रेक्ष्य किरीट-माली ननन्द राजानम् अभिप्रशंसन्

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
परमः परम pos=a,g=m,c=1,n=s
प्रहर्षस् प्रहर्ष pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
अप्रमेयेन अप्रमेय pos=a,g=m,c=3,n=s
समागतानाम् समागम् pos=va,g=m,c=6,n=p,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रेक्ष्य प्रेक्ष् pos=vi
किरीट किरीट pos=n,comp=y
माली मालिन् pos=a,g=m,c=1,n=s
ननन्द नन्द् pos=v,p=3,n=s,l=lit
राजानम् राजन् pos=n,g=m,c=2,n=s
अभिप्रशंसन् अभिप्रशंस् pos=va,g=m,c=1,n=s,f=part