Original

तथा तु तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम् ।मासोऽथ कृच्छ्रेण तदा व्यतीतस्तस्मिन्नगे भारत भारतानाम् ॥ १६ ॥

Segmented

तथा तु तम् चिन्तयताम् सिताश्वम् अस्त्र-अर्थिनम् वासवम् अभ्युपेतम् मासो ऽथ कृच्छ्रेण तदा व्यतीतस् तस्मिन् नगे भारत भारतानाम्

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
चिन्तयताम् चिन्तय् pos=va,g=m,c=6,n=p,f=part
सिताश्वम् सिताश्व pos=n,g=m,c=2,n=s
अस्त्र अस्त्र pos=n,comp=y
अर्थिनम् अर्थिन् pos=a,g=m,c=2,n=s
वासवम् वासव pos=n,g=m,c=2,n=s
अभ्युपेतम् अभ्युपे pos=va,g=m,c=2,n=s,f=part
मासो मास pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कृच्छ्रेण कृच्छ्र pos=n,g=n,c=3,n=s
तदा तदा pos=i
व्यतीतस् व्यती pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
नगे नग pos=n,g=m,c=7,n=s
भारत भारत pos=a,g=m,c=8,n=s
भारतानाम् भारत pos=a,g=m,c=6,n=p