Original

वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् ।वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥ ३४ ॥

Segmented

वृष्टि-मारुत-संतापैः सुखैः स्थावर-जङ्गमान् वर्धयन् सु महा-तेजाः पुनः प्रतिनिवर्तते

Analysis

Word Lemma Parse
वृष्टि वृष्टि pos=n,comp=y
मारुत मारुत pos=n,comp=y
संतापैः संताप pos=n,g=m,c=3,n=p
सुखैः सुख pos=a,g=m,c=3,n=p
स्थावर स्थावर pos=a,comp=y
जङ्गमान् जङ्गम pos=a,g=m,c=2,n=p
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
प्रतिनिवर्तते प्रतिनिवृत् pos=v,p=3,n=s,l=lat