Original

विस्तरेण च मे शंस भीमसेनपराक्रमम् ।यद्यच्चक्रे महाबाहुस्तस्मिन्हैमवते गिरौ ।न खल्वासीत्पुनर्युद्धं तस्य यक्षैर्द्विजोत्तम ॥ ३ ॥

Segmented

विस्तरेण च मे शंस भीमसेन-पराक्रमम् यद् यत् चक्रे महा-बाहुः तस्मिन् हैमवते गिरौ न खलु आसीत् पुनः युद्धम् तस्य यक्षैः द्विज-उत्तम

Analysis

Word Lemma Parse
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
भीमसेन भीमसेन pos=n,comp=y
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
हैमवते हैमवत pos=a,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
pos=i
खलु खलु pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
यक्षैः यक्ष pos=n,g=m,c=3,n=p
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s