Original

नानाद्रुमनिरोधेषु वसन्तः शैलसानुषु ।पर्वतं विविशुः श्वेतं चतुर्थेऽहनि पाण्डवाः ॥ २७ ॥

Segmented

नाना द्रुम-निरोधेषु वसन्तः शैल-सानुषु पर्वतम् विविशुः श्वेतम् चतुर्थे ऽहनि पाण्डवाः

Analysis

Word Lemma Parse
नाना नाना pos=i
द्रुम द्रुम pos=n,comp=y
निरोधेषु निरोध pos=n,g=m,c=7,n=p
वसन्तः वस् pos=va,g=m,c=1,n=p,f=part
शैल शैल pos=n,comp=y
सानुषु सानु pos=n,g=m,c=7,n=p
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
विविशुः विश् pos=v,p=3,n=p,l=lit
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
चतुर्थे चतुर्थ pos=a,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p