Original

सान्त्विता धर्मराजेन प्रसेदुः क्षणदाचराः ।विदिताश्च कुबेरस्य ततस्ते नरपुंगवाः ।ऊषुर्नातिचिरं कालं रममाणाः कुरूद्वहाः ॥ ३१ ॥

Segmented

सान्त्विता धर्मराजेन प्रसेदुः क्षणदा-चराः विदिताः च कुबेरस्य ततस् ते नर-पुंगवाः ऊषुः न अतिचिरम् कालम् रममाणाः कुरु-उद्वहाः

Analysis

Word Lemma Parse
सान्त्विता सान्त्वय् pos=va,g=m,c=1,n=p,f=part
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
प्रसेदुः प्रसद् pos=v,p=3,n=p,l=lit
क्षणदा क्षणदा pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
pos=i
कुबेरस्य कुबेर pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
पुंगवाः पुंगव pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
pos=i
अतिचिरम् अतिचिरम् pos=i
कालम् काल pos=n,g=m,c=2,n=s
रममाणाः रम् pos=va,g=m,c=1,n=p,f=part
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=1,n=p