Original

ततो वायुर्महाञ्शीघ्रो नीचैः शर्करकर्षणः ।प्रादुरासीत्खरस्पर्शः संग्राममभिचोदयन् ॥ २ ॥

Segmented

ततो वायुः महान् शीघ्रः नीचैः शर्कर-कर्षणः प्रादुः आसीत् खर-स्पर्शः संग्रामम् अभिचोदयन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
वायुः वायु pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
शीघ्रः शीघ्र pos=a,g=m,c=1,n=s
नीचैः नीचैस् pos=i
शर्कर शर्कर pos=n,comp=y
कर्षणः कर्षण pos=a,g=m,c=1,n=s
प्रादुः प्रादुर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
खर खर pos=a,comp=y
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
अभिचोदयन् अभिचोदय् pos=va,g=m,c=1,n=s,f=part