Original

ततोऽभ्यनुज्ञाय धनेश्वरं ते जग्मुः कुरूणां प्रवरं विरोषाः ।भीमं च तस्यां ददृशुर्नलिन्यां यथोपजोषं विहरन्तमेकम् ॥ २५ ॥

Segmented

ततो ऽभ्यनुज्ञाय धनेश्वरम् ते जग्मुः कुरूणाम् प्रवरम् विरोषाः भीमम् च तस्याम् ददृशुः नलिन्याम् यथोपजोषम् विहरन्तम् एकम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
प्रवरम् प्रवर pos=a,g=m,c=2,n=s
विरोषाः विरोष pos=a,g=m,c=1,n=p
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
नलिन्याम् नलिनी pos=n,g=f,c=7,n=s
यथोपजोषम् यथोपजोषम् pos=i
विहरन्तम् विहृ pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s