Original

तेषां स मार्गान्विविधान्महात्मा निहत्य शस्त्राणि च शात्रवाणाम् ।यथाप्रवीरान्निजघान वीरः परःशतान्पुष्करिणीसमीपे ॥ १८ ॥

Segmented

तेषाम् स मार्गान् विविधान् महात्मा निहत्य शस्त्राणि च शात्रवाणाम् यथा प्रवीरान् निजघान वीरः परःशतान् पुष्करिणी-समीपे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
मार्गान् मार्ग pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
महात्मा महात्मन् pos=a,g=m,c=1,n=s
निहत्य निहन् pos=vi
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
pos=i
शात्रवाणाम् शात्रव pos=n,g=m,c=6,n=p
यथा यथा pos=i
प्रवीरान् प्रवीर pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
परःशतान् परःशत pos=a,g=m,c=2,n=p
पुष्करिणी पुष्करिणी pos=n,comp=y
समीपे समीप pos=n,g=n,c=7,n=s