Original

शत्रोरपि प्रपन्नस्य सोऽनृशंसः प्रतापवान् ।दाताभयस्य बीभत्सुरमितात्मा महाबलः ॥ १५ ॥

Segmented

शत्रोः अपि प्रपन्नस्य सो ऽनृशंसः प्रतापवान् दाता अभयस्य बीभत्सुः अमित-आत्मा महा-बलः

Analysis

Word Lemma Parse
शत्रोः शत्रु pos=n,g=m,c=6,n=s
अपि अपि pos=i
प्रपन्नस्य प्रपद् pos=va,g=m,c=6,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽनृशंसः अनृशंस pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दाता दातृ pos=a,g=m,c=1,n=s
अभयस्य अभय pos=n,g=n,c=6,n=s
बीभत्सुः बीभत्सु pos=a,g=m,c=1,n=s
अमित अमित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s