Original

ये तु पुत्रकृताच्छोकाद्भृशं व्याकुलचेतसः ।शपन्तीष्टान्सखीनार्तास्तेभ्यः पापतरो नु कः ॥ १७ ॥

Segmented

ये तु पुत्र-कृतात् शोकात् भृशम् व्याकुल-चेतसः शपन्ति इष्टान् सखीन् आर्तास् तेभ्यः पापतरो नु कः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
पुत्र पुत्र pos=n,comp=y
कृतात् कृ pos=va,g=m,c=5,n=s,f=part
शोकात् शोक pos=n,g=m,c=5,n=s
भृशम् भृशम् pos=i
व्याकुल व्याकुल pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
शपन्ति शप् pos=v,p=3,n=p,l=lat
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
सखीन् सखि pos=n,g=,c=2,n=p
आर्तास् आर्त pos=a,g=m,c=1,n=p
तेभ्यः तद् pos=n,g=m,c=5,n=p
पापतरो पापतर pos=a,g=m,c=1,n=s
नु नु pos=i
कः pos=n,g=m,c=1,n=s