Original

बन्द्युवाच ।एकादशैकादशिनः पशूनामेकादशैवात्र भवन्ति यूपाः ।एकादश प्राणभृतां विकारा एकादशोक्ता दिवि देवेषु रुद्राः ॥ १७ ॥

Segmented

बन्दी उवाच एकादश ऐकादशिनः पशूनाम् एकादश एव अत्र भवन्ति यूपाः एकादश प्राणभृताम् विकारा एकादशा उक्ताः दिवि देवेषु रुद्राः

Analysis

Word Lemma Parse
बन्दी बन्दिन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकादश एकादशन् pos=n,g=n,c=1,n=s
ऐकादशिनः ऐकादशिन pos=a,g=m,c=1,n=s
पशूनाम् पशु pos=n,g=m,c=6,n=p
एकादश एकादशन् pos=n,g=n,c=1,n=s
एव एव pos=i
अत्र अत्र pos=i
भवन्ति भू pos=v,p=3,n=p,l=lat
यूपाः यूप pos=n,g=m,c=1,n=p
एकादश एकादशन् pos=n,g=n,c=1,n=s
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
विकारा विकार pos=n,g=m,c=1,n=p
एकादशा एकादशन् pos=n,g=m,c=1,n=s
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
दिवि दिव् pos=n,g=m,c=7,n=s
देवेषु देव pos=n,g=m,c=7,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p