Original

अष्टावक्र उवाच ।यद्यत्र वृद्धेषु कृतः प्रवेशो युक्तं मम द्वारपाल प्रवेष्टुम् ।वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन प्रवेशनार्हाः ॥ ६ ॥

Segmented

अष्टावक्र उवाच यदि अत्र वृद्धेषु कृतः प्रवेशो युक्तम् मम द्वारपाल प्रवेष्टुम् वयम् हि वृद्धाः चरित-व्रताः च वेद-प्रभावेन प्रवेशन-अर्हाः

Analysis

Word Lemma Parse
अष्टावक्र अष्टावक्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
अत्र अत्र pos=i
वृद्धेषु वृद्ध pos=a,g=m,c=7,n=p
कृतः कृ pos=va,g=m,c=1,n=s,f=part
प्रवेशो प्रवेश pos=n,g=m,c=1,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
द्वारपाल द्वारपाल pos=n,g=m,c=8,n=s
प्रवेष्टुम् प्रविश् pos=vi
वयम् मद् pos=n,g=,c=1,n=p
हि हि pos=i
वृद्धाः वृद्ध pos=a,g=m,c=1,n=p
चरित चर् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
pos=i
वेद वेद pos=n,comp=y
प्रभावेन प्रभाव pos=n,g=m,c=3,n=s
प्रवेशन प्रवेशन pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p