Original

तस्मिन्काले ब्रह्मविदां वरिष्ठावास्तां तदा मातुलभागिनेयौ ।अष्टावक्रश्चैव कहोडसूनुरौद्दालकिः श्वेतकेतुश्च राजन् ॥ ३ ॥

Segmented

तस्मिन् काले ब्रह्म-विदाम् वरिष्ठौ आस्ताम् तदा मातुल-भागिनेयौ अष्टावक्रः च एव कहोड-सूनुः औद्दालकिः श्वेतकेतुः च राजन्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
वरिष्ठौ वरिष्ठ pos=a,g=m,c=1,n=d
आस्ताम् अस् pos=v,p=3,n=d,l=lan
तदा तदा pos=i
मातुल मातुल pos=n,comp=y
भागिनेयौ भागिनेय pos=n,g=m,c=1,n=d
अष्टावक्रः अष्टावक्र pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कहोड कहोड pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
औद्दालकिः औद्दालकि pos=n,g=m,c=1,n=s
श्वेतकेतुः श्वेतकेतु pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s