Original

गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ ५८ ॥

Segmented

गर्हये पाण्डवान् तु एव युधि श्रेष्ठान् महा-बलान् ये क्लिश्यमानाम् प्रेक्षन्ते धर्मपत्नीम् यशस्विनीम्

Analysis

Word Lemma Parse
गर्हये गर्हय् pos=v,p=1,n=s,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
तु तु pos=i
एव एव pos=i
युधि युध् pos=n,g=f,c=7,n=s
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
क्लिश्यमानाम् क्लिश् pos=va,g=f,c=2,n=s,f=part
प्रेक्षन्ते प्रेक्ष् pos=v,p=3,n=p,l=lat
धर्मपत्नीम् धर्मपत्नी pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s