Original

तथैव तदसंख्येयं धनं यत्प्रददौ गयः ।सदस्येभ्यो महाराज तेषु यज्ञेषु सप्तसु ॥ ९ ॥

Segmented

तथा एव तद् असंख्येयम् धनम् यत् प्रददौ गयः सदस्येभ्यो महा-राज तेषु यज्ञेषु सप्तसु

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
असंख्येयम् असंख्येय pos=a,g=n,c=1,n=s
धनम् धन pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
गयः गय pos=n,g=m,c=1,n=s
सदस्येभ्यो सदस्य pos=n,g=m,c=4,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तेषु तद् pos=n,g=m,c=7,n=p
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
सप्तसु सप्तन् pos=n,g=m,c=7,n=p