Original

तत्रोदधेः कंचिदतीत्य देशं ख्यातं पृथिव्यां वनमाससाद ।तप्तं सुरैर्यत्र तपः पुरस्तादिष्टं तथा पुण्यतमैर्नरेन्द्रैः ॥ ९ ॥

Segmented

तत्र उदधेः कंचिद् अतीत्य देशम् ख्यातम् पृथिव्याम् वनम् आससाद तप्तम् सुरैः यत्र तपः पुरस्ताद् इष्टम् तथा पुण्यतमैः नरेन्द्रैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
उदधेः उदधि pos=n,g=m,c=6,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अतीत्य अती pos=vi
देशम् देश pos=n,g=m,c=2,n=s
ख्यातम् ख्या pos=va,g=m,c=2,n=s,f=part
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
वनम् वन pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
यत्र यत्र pos=i
तपः तपस् pos=n,g=n,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
पुण्यतमैः पुण्यतम pos=a,g=m,c=3,n=p
नरेन्द्रैः नरेन्द्र pos=n,g=m,c=3,n=p