Original

ततः सहस्राणि गवां प्रदाय तीर्थेषु तेष्वम्बुधरोत्तमस्य ।हृष्टः सह भ्रातृभिरर्जुनस्य संकीर्तयामास गवां प्रदानम् ॥ ७ ॥

Segmented

ततः सहस्राणि गवाम् प्रदाय तीर्थेषु तेषु अम्बुधर-उत्तमस्य हृष्टः सह भ्रातृभिः अर्जुनस्य संकीर्तयामास गवाम् प्रदानम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
गवाम् गो pos=n,g=,c=6,n=p
प्रदाय प्रदा pos=vi
तीर्थेषु तीर्थ pos=n,g=m,c=7,n=p
तेषु तद् pos=n,g=m,c=7,n=p
अम्बुधर अम्बुधर pos=n,comp=y
उत्तमस्य उत्तम pos=a,g=m,c=6,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
संकीर्तयामास संकीर्तय् pos=v,p=3,n=s,l=lit
गवाम् गो pos=n,g=,c=6,n=p
प्रदानम् प्रदान pos=n,g=n,c=2,n=s