Original

स तेषु तीर्थेष्वभिषिक्तगात्रः कृष्णासहायः सहितोऽनुजैश्च ।संपूजयन्विक्रममर्जुनस्य रेमे महीपालपतिः पृथिव्याम् ॥ ६ ॥

Segmented

स तेषु तीर्थेषु अभिषिच्-गात्रः कृष्णा-सहायः सहितो ऽनुजैः च सम्पूजयन् विक्रमम् अर्जुनस्य रेमे महीपाल-पतिः पृथिव्याम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेषु तद् pos=n,g=n,c=7,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
अभिषिच् अभिषिच् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
कृष्णा कृष्णा pos=n,comp=y
सहायः सहाय pos=n,g=m,c=1,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ऽनुजैः अनुज pos=n,g=m,c=3,n=p
pos=i
सम्पूजयन् सम्पूजय् pos=va,g=m,c=1,n=s,f=part
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
महीपाल महीपाल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s