Original

स वृत्तवांस्तेषु कृताभिषेकः सहानुजः पार्थिवपुत्रपौत्रः ।समुद्रगां पुण्यतमां प्रशस्तां जगाम पारिक्षित पाण्डुपुत्रः ॥ २ ॥

Segmented

स वृत्तवांस् तेषु कृत-अभिषेकः सहानुजः पार्थिव-पुत्र-पौत्रः समुद्रगाम् पुण्यतमाम् प्रशस्ताम् जगाम पारिक्षित पाण्डु-पुत्रः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वृत्तवांस् वृत् pos=va,g=m,c=1,n=s,f=part
तेषु तद् pos=n,g=m,c=7,n=p
कृत कृ pos=va,comp=y,f=part
अभिषेकः अभिषेक pos=n,g=m,c=1,n=s
सहानुजः सहानुज pos=a,g=m,c=1,n=s
पार्थिव पार्थिव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
पौत्रः पौत्र pos=n,g=m,c=1,n=s
समुद्रगाम् समुद्रगा pos=n,g=f,c=2,n=s
पुण्यतमाम् पुण्यतम pos=a,g=f,c=2,n=s
प्रशस्ताम् प्रशंस् pos=va,g=f,c=2,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
पारिक्षित पारिक्षित pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s