Original

अकृतव्रण उवाच ।आयानेवासि विदितो रामस्य विदितात्मनः ।प्रीतिस्त्वयि च रामस्य क्षिप्रं त्वां दर्शयिष्यति ॥ ५ ॥

Segmented

अकृतव्रण उवाच आयान् एव असि विदितो रामस्य विदित-आत्मनः प्रीतिस् त्वयि च रामस्य क्षिप्रम् त्वाम् दर्शयिष्यति

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयान् आय pos=n,g=m,c=2,n=p
एव एव pos=i
असि अस् pos=v,p=2,n=s,l=lat
विदितो विद् pos=va,g=m,c=1,n=s,f=part
रामस्य राम pos=n,g=m,c=6,n=s
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रीतिस् प्रीति pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
रामस्य राम pos=n,g=m,c=6,n=s
क्षिप्रम् क्षिप्रम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt