Original

एवमस्त्विति सा तेन पाण्डव प्रतिनन्दिता ।जमदग्निं ततः पुत्रं सा जज्ञे काल आगते ।तेजसा वर्चसा चैव युक्तं भार्गवनन्दनम् ॥ २८ ॥

Segmented

एवम् अस्तु इति सा तेन पाण्डव प्रतिनन्दिता जमदग्निम् ततः पुत्रम् सा जज्ञे काल आगते तेजसा वर्चसा च एव युक्तम् भार्गव-नन्दनम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
प्रतिनन्दिता प्रतिनन्द् pos=va,g=f,c=1,n=s,f=part
जमदग्निम् जमदग्नि pos=n,g=m,c=2,n=s
ततः ततस् pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
काल काल pos=n,g=m,c=7,n=s
आगते आगम् pos=va,g=m,c=7,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
वर्चसा वर्चस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
भार्गव भार्गव pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s