Original

गङ्गायां कन्यकुब्जे वै ददौ सत्यवतीं तदा ।ततो गाधिः सुतां तस्मै जन्याश्चासन्सुरास्तदा ।लब्ध्वा हयसहस्रं तु तांश्च दृष्ट्वा दिवौकसः ॥ १७ ॥

Segmented

गङ्गायाम् कन्यकुब्जे वै ददौ सत्यवतीम् तदा ततो गाधिः सुताम् तस्मै जन्याः च आसन् सुरास् तदा लब्ध्वा हय-सहस्रम् तु तान् च दृष्ट्वा दिवौकसः

Analysis

Word Lemma Parse
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
कन्यकुब्जे कन्यकुब्ज pos=n,g=n,c=7,n=s
वै वै pos=i
ददौ दा pos=v,p=3,n=s,l=lit
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
तदा तदा pos=i
ततो ततस् pos=i
गाधिः गाधि pos=n,g=m,c=1,n=s
सुताम् सुता pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
जन्याः जन्य pos=n,g=m,c=1,n=p
pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
सुरास् सुर pos=n,g=m,c=1,n=p
तदा तदा pos=i
लब्ध्वा लभ् pos=vi
हय हय pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p