Original

ततो दुहितरं वेश्या समाधायेतिकृत्यताम् ।दृष्ट्वान्तरं काश्यपस्य प्राहिणोद्बुद्धिसंमताम् ॥ ५ ॥

Segmented

ततो दुहितरम् वेश्या समाधाय इतिकृत्यताम् दृष्ट्वा अन्तरम् काश्यपस्य प्राहिणोद् बुद्धि-संमताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
वेश्या वेश्या pos=n,g=f,c=1,n=s
समाधाय समाधा pos=vi
इतिकृत्यताम् इतिकृत्यता pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
काश्यपस्य काश्यप pos=n,g=m,c=6,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
बुद्धि बुद्धि pos=n,comp=y
संमताम् सम्मन् pos=va,g=f,c=2,n=s,f=part