Original

ते वध्यमानास्त्रिदशैर्महात्मभिर्महाबलैर्वेगिभिरुन्नदद्भिः ।न सेहिरे वेगवतां महात्मनां वेगं तदा धारयितुं दिवौकसाम् ॥ ८ ॥

Segmented

ते वध्यमानास् त्रिदशैः महात्मभिः महा-बलैः वेगिभिः उन्नदद्भिः न सेहिरे वेगवताम् महात्मनाम् वेगम् तदा धारयितुम् दिवौकसाम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानास् वध् pos=va,g=m,c=1,n=p,f=part
त्रिदशैः त्रिदश pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
बलैः बल pos=n,g=m,c=3,n=p
वेगिभिः वेगिन् pos=a,g=m,c=3,n=p
उन्नदद्भिः उन्नद् pos=va,g=m,c=3,n=p,f=part
pos=i
सेहिरे सह् pos=v,p=3,n=p,l=lit
वेगवताम् वेगवत् pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वेगम् वेग pos=n,g=m,c=2,n=s
तदा तदा pos=i
धारयितुम् धारय् pos=vi
दिवौकसाम् दिवौकस् pos=n,g=m,c=6,n=p