Original

त्रिदशा विष्णुना सार्धमुपजग्मुः पितामहम् ।पूरणार्थं समुद्रस्य मन्त्रयित्वा पुनः पुनः ।ऊचुः प्राञ्जलयः सर्वे सागरस्याभिपूरणम् ॥ १९ ॥

Segmented

त्रिदशा विष्णुना सार्धम् उपजग्मुः पितामहम् पूरण-अर्थम् समुद्रस्य मन्त्रयित्वा पुनः पुनः ऊचुः प्राञ्जलयः सर्वे सागरस्य अभिपूरणम्

Analysis

Word Lemma Parse
त्रिदशा त्रिदश pos=n,g=m,c=1,n=p
विष्णुना विष्णु pos=n,g=m,c=3,n=s
सार्धम् सार्धम् pos=i
उपजग्मुः उपगम् pos=v,p=3,n=p,l=lit
पितामहम् पितामह pos=n,g=m,c=2,n=s
पूरण पूरण pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
मन्त्रयित्वा मन्त्रय् pos=vi
पुनः पुनर् pos=i
पुनः पुनर् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सागरस्य सागर pos=n,g=m,c=6,n=s
अभिपूरणम् अभिपूरण pos=n,g=n,c=2,n=s