Original

एतच्छ्रुत्वा तु वचनं महर्षेर्भावितात्मनः ।विस्मिताश्च विषण्णाश्च बभूवुः सहिताः सुराः ॥ १७ ॥

Segmented

एतत् श्रुत्वा तु वचनम् महा-ऋषेः भावितात्मनः विस्मिताः च विषण्णाः च बभूवुः सहिताः सुराः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भावितात्मनः भावितात्मन् pos=a,g=m,c=6,n=s
विस्मिताः विस्मि pos=va,g=m,c=1,n=p,f=part
pos=i
विषण्णाः विषद् pos=va,g=m,c=1,n=p,f=part
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
सहिताः सहित pos=a,g=m,c=1,n=p
सुराः सुर pos=n,g=m,c=1,n=p