Original

एवं क्रमेण सर्वांस्तानाश्रमान्दानवास्तदा ।निशायां परिधावन्ति मत्ता भुजबलाश्रयात् ।कालोपसृष्टाः कालेया घ्नन्तो द्विजगणान्बहून् ॥ ६ ॥

Segmented

एवम् क्रमेण सर्वांस् तान् आश्रमान् दानवास् तदा निशायाम् परिधावन्ति मत्ता भुज-बल-आश्रयात् काल-उपसृष्टाः कालेया घ्नन्तो द्विज-गणान् बहून्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
क्रमेण क्रमेण pos=i
सर्वांस् सर्व pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
आश्रमान् आश्रम pos=n,g=m,c=2,n=p
दानवास् दानव pos=n,g=m,c=1,n=p
तदा तदा pos=i
निशायाम् निशा pos=n,g=f,c=7,n=s
परिधावन्ति परिधाव् pos=v,p=3,n=p,l=lat
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
भुज भुज pos=n,comp=y
बल बल pos=n,comp=y
आश्रयात् आश्रय pos=n,g=m,c=5,n=s
काल काल pos=n,comp=y
उपसृष्टाः उपसृज् pos=va,g=m,c=1,n=p,f=part
कालेया कालेय pos=n,g=m,c=1,n=p
घ्नन्तो हन् pos=va,g=m,c=1,n=p,f=part
द्विज द्विज pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p