Original

एवं रात्रौ स्म कुर्वन्ति विविशुश्चार्णवं दिवा ।भरद्वाजाश्रमे चैव नियता ब्रह्मचारिणः ।वाय्वाहाराम्बुभक्षाश्च विंशतिः संनिपातिताः ॥ ५ ॥

Segmented

एवम् रात्रौ स्म कुर्वन्ति विविशुः च अर्णवम् दिवा भरद्वाज-आश्रमे च एव नियता ब्रह्मचारिणः वायु-आहार-अम्बु-भक्षाः च विंशतिः संनिपातिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s
स्म स्म pos=i
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
विविशुः विश् pos=v,p=3,n=p,l=lit
pos=i
अर्णवम् अर्णव pos=n,g=m,c=2,n=s
दिवा दिव् pos=n,g=m,c=3,n=s
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
एव एव pos=i
नियता नियम् pos=va,g=m,c=1,n=p,f=part
ब्रह्मचारिणः ब्रह्मचारिन् pos=n,g=m,c=1,n=p
वायु वायु pos=n,comp=y
आहार आहार pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
भक्षाः भक्ष pos=n,g=m,c=1,n=p
pos=i
विंशतिः विंशति pos=n,g=f,c=1,n=s
संनिपातिताः संनिपातय् pos=va,g=m,c=1,n=p,f=part