Original

सुरभिरुवाच ।यदि पुत्रसहस्रं मे सर्वत्र सममेव मे ।दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥ १६ ॥

Segmented

सुरभिः उवाच यदि पुत्र-सहस्रम् मे सर्वत्र समम् एव मे दीनस्य तु सतः शक्र पुत्रस्य अभ्यधिका कृपा

Analysis

Word Lemma Parse
सुरभिः सुरभि pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यदि यदि pos=i
पुत्र पुत्र pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सर्वत्र सर्वत्र pos=i
समम् सम pos=n,g=n,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
दीनस्य दीन pos=a,g=m,c=6,n=s
तु तु pos=i
सतः अस् pos=va,g=m,c=6,n=s,f=part
शक्र शक्र pos=n,g=m,c=8,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
अभ्यधिका अभ्यधिक pos=a,g=f,c=1,n=s
कृपा कृपा pos=n,g=f,c=1,n=s